अमृतसञ्जीवन धन्वन्तरिस्तोत्रम् । AmrutaSanjeevan Dhanwantari Stotram
अमृतसञ्जीवन धन्वन्तरिस्तोत्रम् नमो नमो विश्वविभावनायनमो नमो लोकसुखप्रदाय ।नमो नमो विश्वसृजेश्वरायनमो नमो नमो मुक्तिवरप्रदाय ॥ १॥ नमो नमस्तेऽखिललोकपायनमो नमस्तेऽखिलकामदाय ।नमो नमस्तेऽखिलकारणायनमो नमस्तेऽखिलरक्षकाय ॥ २॥ नमो नमस्ते सकलार्त्रिहर्त्रेनमो नमस्ते विरुजः प्रकर्त्रे ।नमो नमस्तेऽखिलविश्वधर्त्रेनमो नमस्तेऽखिललोकभर्त्रे ॥ ३॥ सृष्टं देव चराचरं जगदिदं ब्रह्मस्वरूपेण तेसर्वं तत्परिपाल्यते जगदिदं विष्णुस्वरूपेण ते ।विश्वं संह्रियते तदेव निखिलं रुद्रस्वरूपेण तेसंसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ ४॥ …